Ganesh

Ganesh Devotional video & information post

गङ्गाद्विपदी जय जय त्वं सदानन्ददे जह्नुजेशशिशेखरशिरसि सितकुसुममाले ।भक्तजनहृदयालवालगत-हरिचरणसुरतरुप्रसवभूते रसाले ॥ १॥शि...
17/05/2026

गङ्गाद्विपदी

जय जय त्वं सदानन्ददे जह्नुजे
शशिशेखरशिरसि सितकुसुममाले ।
भक्तजनहृदयालवालगत-
हरिचरणसुरतरुप्रसवभूते रसाले ॥ १॥

शिखरितनयानयनरोलम्बचुम्बिते
दूरीकृतदुरितदौर्गन्ध्यजाले ।
जीवनं भक्तजनजीवनं तव
यतस्त्रिविधतापापहं मुक्तिशाले ॥ २॥

इति श्रीगोकुलोत्सवात्मजगोस्वामिश्रीजीवनजीमहाराजकृता
गङ्गाद्विपदी सम्पूर्णा ।

शनिमङ्गलस्तोत्रम् मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ...
16/05/2026

शनिमङ्गलस्तोत्रम्

मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।
स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥

स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः ।
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥

प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥

ॐ अनया पूजया शनैश्चरः प्रीयताम् ।
ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥

इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥

05/05/2026

I got over 100 reactions on my posts last week! Thanks everyone for your support! 🎉

गणपतिस्तोत्रम् सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरंगृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनंप...
05/05/2026

गणपतिस्तोत्रम्

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं
गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् ।
चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं
प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १॥

किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं
प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् ।
प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं
सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २॥

सुवर्णदण्डमण्डितप्रचण्डचारुचामरं
गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।
कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं
षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३॥

विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं
गिरीशदर्शनेच्छया समर्पितं पराशया ।
निरन्तरं सुरासुरैः सपुत्रवामलोचनैः
महामखेष्टमिष्टकर्मसु (स्मृतं) भजामि तुन्दिलम् ॥ ४॥

मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं
प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।
अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं
नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५॥

दारिद्र्यविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्रमादरात् ।
पुत्रीकलत्रस्वजनेषु मैत्री पुमान्मवेदेकवरप्रसादात् ॥६॥

इति श्रीमच्छङ्कराचार्यविरचितं गणपतिस्तोत्रं सम्पूर्णम् ।

श्रीकालभैरवपञ्चरत्नस्तुतिः खड्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम् ।दिगम्बरं भस्मविभूषिताङ्गं नमाम्यह...
26/04/2026

श्रीकालभैरवपञ्चरत्नस्तुतिः

खड्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम् ।
दिगम्बरं भस्मविभूषिताङ्गं नमाम्यहं भैरवमिन्दुचूडम् ॥ १॥

कवित्वदं सत्वरमेव मोदान्नतालये शम्भुमनोऽभिरामम् ।
नमामि यानीकृतसारमेयं भवाब्धिपारं गमयन्तमाशु ॥ २॥

जरादिदुःखौघविभेददक्षं विरागिसंसेव्यपदारविन्दम् ।
नराधिपत्वप्रदमाशु नन्त्रे सुराधिपं भैरवमानतोऽस्मि ॥ ३॥

शमादिसम्पत्प्रदमानतेभ्यो रमाधवाद्यर्चितपादपद्मम् ।
समाधिनिष्ठैस्तरसाधिगम्यं नमाम्यहं भैरवमादिनाथम् ॥ ४॥

गिरामगम्यं मनसोऽपि दूरं चराचरस्य प्रभवादिहेतुम् ।
कराक्षिपच्छून्यमथापि रम्यं परावरं भैरवमानतोऽस्मि ॥ ५॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीकालभैरवपञ्चरत्नस्तुतिः सम्पूर्णा ।

Address

Navi Mumbai

Alerts

Be the first to know and let us send you an email when Ganesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share